हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Kishkindha Kanda Sarga 58 – किष्किन्धाकाण्ड अष्टपञ्चाशः सर्गः (५८)
॥ सीताप्रवृत्युपलम्भः ॥
इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः ।
सबाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः ॥ १ ॥
यवीयान् मम स भ्राता जटायुर्नाम वानराः ।
यमाख्यात हतं युद्धे रावणेन बलीयसा ॥ २ ॥
वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये ।
न हि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे ॥ ३ ॥
पुरा वृत्रवधे वृत्ते परस्परजयैषिणौ ।
आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् ॥ ४ ॥
आवृत्त्याऽऽकाशमार्गे तु जवेन स्म गतौ भृशम् ।
मध्यं प्राप्ते दिनकरे जटायुरवसीदति ॥ ५ ॥
तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् ।
पक्षाभ्यां छादयामास स्नेहात्परमविह्वलम् ॥ ६ ॥
निर्दग्धपक्षः पतितो विन्ध्येऽहं वानरर्षभाः ।
अहमस्मिन्वसन्भ्रातुः प्रवृत्तिं नोपलक्षये ॥ ७ ॥
जटायुषस्त्वेवमुक्तो भ्राता सम्पातिना तदा ।
युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा ॥ ८ ॥
जटायुषो यदि भ्राता श्रुतं ते गदितं मया ।
आख्याहि यदि जानासि निलयं तस्य रक्षसः ॥ ९ ॥
अदीर्घदर्शनं तं वै रावणं राक्षसाधिपम् ।
अन्तिके यदि वा दूरे यदि जानासि शंस नः ॥ १० ॥
ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः ।
आत्मानुरूपं वचनं वानरान् सम्प्रहर्षयन् ॥ ११ ॥
निर्दग्धपक्षो गृध्रोऽहं हीनवीर्यः प्लवङ्गमाः ।
वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम् ॥ १२ ॥
जानामि वारुणान् लोकान् विष्णोस्त्रैविक्रमानपि ।
महासुरविमर्दान्वाऽप्यमृतस्य च मन्थनम् ॥ १३ ॥
रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया ।
जरया च हृतं तेजः प्राणाश्च शिथिला मम ॥ १४ ॥
तरुणी रूपसम्पन्ना सर्वाभरणभूषिता ।
ह्रियमाणा मया दृष्टा रावणेन दुरात्मना ॥ १५ ॥
क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी ।
भूषणान्यपविध्यन्ती गात्राणि च विधून्वती ॥ १६ ॥
सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् ।
असिते राक्षसे भाति यथा वा तडिदम्बुदे ॥ १७ ॥
तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् ।
श्रूयतां मे कथयतो निलयं तस्य रक्षसः ॥ १८ ॥
पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च ।
अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः ॥ १९ ॥
इतो द्वीपे समुद्रस्य सम्पूर्णे शतयोजने ।
तस्मिन् लङ्कापुरी रम्या निर्मिता विश्वकर्मणा ॥ २० ॥
जाम्बूनदमयैर्द्वारैश्चित्रैः काञ्चनवेदिकैः ।
प्राकारेणार्कवर्णेन महता सुसमावृता ॥ २१ ॥
तस्यां वसति वैदेही दीना कौशेयवासिनी ।
रावणान्तःपुरे रुद्धा राक्षसीभिः समावृता ॥ २२ ॥
जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम् ।
लङ्कायामथ गुप्तायां सागरेण समन्ततः ॥ २३ ॥
सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम् ।
आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम् ॥ २४ ॥
तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः ।
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ॥ २५ ॥
आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः ।
द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः ॥ २६ ॥
भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह ।
श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् ॥ २७ ॥
बलवीर्योपपन्नानां रूपयौवनशालिनाम् ।
षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा ॥ २८ ॥
वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः ।
इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा ॥ २९ ॥
अस्माकमपि सौपर्णं दिव्यं चक्षुर्बलं तथा ।
तस्मादाहारवीर्येण निसर्गेण च वानराः ॥ ३० ॥
आयोजनशतात् साग्राद्वयं पश्याम नित्यशः ।
अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः ॥ ३१ ॥
विहिता पादमूले तु वृत्तिश्चरणयोधिनाम् ।
गर्हितं तु कृतं कर्म येन स्म पिशिताशिना ॥ ३२ ॥
प्रतीकार्यं च मे तस्य वैरं भ्रातुः कृतं भवेत् ।
उपायो दृश्यतां कश्चिल्लङ्घने लवाणाम्भसः ॥ ३३ ॥
अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ ।
समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् ॥ ३४ ॥
प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः ।
ततो नीत्वा तु तं देशं तीरं नदनदीपतेः ॥ ३५ ॥
निर्दग्धपक्षं सम्पातिं वानराः सुमहौजसः ।
पुनः प्रत्यानयित्वा च तं देशं पतगेश्वरम् ।
बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते ॥ ३६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.